|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.341. अध्यायः 341
Mahabharata - Shanti Parva - Chapter Topics
अन्तरिक्षाद्गिरिशिखरे निपतितेन शुकेन तद्विभेदनपूर्वकं ततो निष्क्रमणम्॥ 1॥ ततः पुत्रवियोगविषपणस्य व्यासस्य रुद्रेण समाश्वासनम्॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-341-0x(6560)(79342)
इत्येवमुक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः।
प्रातिष्ठत शुकः सिद्धिं हित्वा दोषांश्चतुर्विधान्॥ 12-341-1(79343)
तमो ह्यष्टगुणं हित्वा जहौ पञ्चविधं रजः।
ततः सत्वं जहौ धीमांस्तदद्भुतमिवाभवत्॥ 12-341-2(79344)
ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गवर्जिते।
ब्रह्मणि प्रत्यतिष्ठत्स विधूमोऽग्निरिव ज्वलन्॥ 12-341-3(79345)
उत्कापाता दिशां दाहो भूमिकम्पस्तथैव च।
प्रादुर्भूताः क्षणे तस्मिंस्तदद्भुतमिवाभवत्॥ 12-341-4(79346)
द्रुमाः शाखाश्च मुमुचुः शिखराणि च पर्वताः।
निर्घातशब्दैर्गुरुभिर्भूमिर्व्यादीर्यतेव ह॥ 12-341-5(79347)
न बभासे सहस्रांशुर्न जज्वाल च पावकः।
ह्रदाश्च सरितश्चैव चुक्षुभुः सागरास्तथा॥ 12-341-6(79348)
ववर्ष वासवस्तोयं रसवच्च सुगन्धि च।
ववौ समीरणश्चापि दिव्यगन्धवहः शुचिः॥ 12-341-7(79349)
स शृङ्गेऽप्रतिमे दिव्ये हिमवन्मेरुसंनिभे।
संश्लिष्टे स्वतेपीते द्वे रुक्मरूप्यमये शुभे॥ 12-341-8(79350)
शतयोजनविस्तारे तिर्यगूर्ध्वं च भारत।
उदीचीं दिशमास्थाय रुचिरे संददर्श ह॥ 12-341-9(79351)
सोऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः॥ 12-341-10(79352)
ततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृते।
अदृश्येतां महाराज तदद्भुतमिवाभवत्॥ 12-341-11(79353)
ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः।
न च प्रतिजघानास्य स गतिं पर्वतोत्तमः॥ 12-341-12(79354)
ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम्।
गन्धर्वाणामृषीणां च ये च शैलनिवासिनः॥ 12-341-13(79355)
दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधा कृतम्।
साधुसाध्विति तत्रासीन्नादः सर्वत्र भारत॥ 12-341-14(79356)
स पूज्यमानो देवैश्च गन्धर्वैर्ऋशिभिस्तथा।
यक्षराक्षससङ्घैश्च विद्याधरगणैस्तथा॥ 12-341-15(79357)
दिव्यैः पुष्पैः समाकीर्णमन्तरिक्षं समन्ततः।
आसीत्किल महाराज शुकाभिपतने तदा॥ 12-341-16(79358)
ततो मन्दाकिनीं रम्यामुपरिष्टादभिव्रजन्।
शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम्॥ 12-341-17(79359)
तस्यां क्रीडन्त्यभिरताः स्नान्ति चैवाप्सरोगणाः।
शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः॥ 12-341-18(79360)
तं प्रक्रामन्तमाज्ञाय पिता स्नेहसमन्वितः।
उत्तमां गतिमास्थाय पृष्ठतोऽनुससार ह॥ 12-341-19(79361)
शुकस्तु मारुतादूर्ध्वं गतिं कृत्वान्तरिक्षगाम्।
दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा॥ 12-341-20(79362)
महायोगगतिं त्वग्र्यां व्यासोत्थाय महातपाः।
निमेषान्तरमात्रेण शुकाभिपतनं ययौ॥ 12-341-21(79363)
स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम्।
शशंसुर्ऋषयस्तत्र कर्म पुत्रस्य तत्तदा॥ 12-341-22(79364)
ततः शुकेति दीर्घेण शब्देनाक्रन्दितस्तदा।
स्वयं पित्रा स्वरेणोच्चैस्त्रील्लोँकाननुनाद्य वै॥ 12-341-23(79365)
शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः।
प्रत्यभाषत धर्मात्मा भोःशब्देनानुनादयन्॥ 12-341-24(79366)
तत एकाक्षरं नादं भोरित्येव समीरयन्।
प्रत्याहरञ्जगत्सर्वमुच्चैः स्थावरजङ्गमम्॥ 12-341-25(79367)
ततःप्रभृति चाद्यापि शब्दानुच्चारितान्पृथक्।
गिरिगह्वरपृष्ठेषु व्याहरन्ति शुकं प्रति॥ 12-341-26(79368)
अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदा।
गुणान्संत्यज्य शब्दादीन्पदमभ्यगमत्परम्॥ 12-341-27(79369)
महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः।
निषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन्॥ 12-341-28(79370)
ततो मन्दाकिनीतीरे क्रीडन्तोऽऽप्सरसां गणाः।
आसाद्य तमृषिं सर्वाः संभ्रान्ता गतचेतसः॥ 12-341-29(79371)
जले निलिल्यिरे काश्चित्काश्चिद्गुल्मान्प्रपेदिरे।
वसनान्याददुः काश्चित्तं दृष्ट्वा मुनिसत्तमम्॥ 12-341-30(79372)
तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा।
सक्ततामात्मनश्चैव प्रीतोऽभूद्बीडितश्च ह॥ 12-341-31(79373)
तं देवगन्धर्ववृतो महर्षिगणपूजितः।
पिनाकहस्तो भगवानभ्यागच्छत शंकरः॥ 12-341-32(79374)
तमुवाच महादेवः सान्त्वपूर्वमिदं वचः।
पुत्रशोकाभिसंतप्तं कृष्णद्वैपायनं तदा॥ 12-341-33(79375)
अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चैव ह।
वीर्येण सदृशः पुत्रः पुरा मत्तस्त्वया वृतः॥ 12-341-34(79376)
स तथालक्षणो जातस्तपसा तव संभृतः।
मम चैव प्रसादेन ब्रह्मतेजोमयः शुचिः॥ 12-341-35(79377)
स गतिं परमां प्राप्तो दुष्प्रापामजितेन्द्रियैः।
दैवतैरपि विप्रर्षे तं त्वं किमनुशोचसि॥ 12-341-36(79378)
यावत्स्थास्यन्ति गिरयो यावत्स्थास्यन्ति सागराः।
तावत्तवाक्षया कीर्तिः सपुत्रस्य भविष्यति॥ 12-341-37(79379)
छायां स्वपुत्रसदृशीं सर्वतोऽनपगां सदा।
द्रक्ष्यसे त्वं च लोकेऽस्मिन्मत्प्रसादान्महामुने॥ 12-341-38(79380)
सोऽनुगीतो भगवता स्वयं रुद्रेण भारत।
छायां पश्यन्परावृत्तः स मुनिः परया मुदा॥ 12-341-39(79381)
इति जन्म गतिश्चैव शुकस्य भरतर्षभ।
विस्तरेण समाख्याता यन्मां त्वं परिपृच्छसि॥ 12-341-40(79382)
एतदाचष्ट मे राजन्देवर्षिर्नारदः पुरा।
व्यासश्चैव महायोगी संजल्पेषु पदेपदे॥ 12-341-41(79383)
इतिहासमिमं पुण्यं मोक्षधर्मार्थसंहितम्।
धारयेद्यः शमपरः स गच्छेत्परमां गतिम्॥ ॥ 12-341-42(79384)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकचत्वारिंशदधिकत्रिशततमोऽध्यायः॥ 341॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-341-1 सिद्धिं श्रुत्वा दोषान्बहुप्रियानिति ट. पाठः॥ 12-341-5 निर्घातशब्दैर्गुरुभिर्हिमवान्दीर्यतीव हेति झ. ट. थ. पाठः॥ 12-341-6 दिशश्च सरितश्चैवेति ध. पाठः। द्गुमाश्च सरितश्चैवेति ट. पाठः॥ 12-341-21 व्यास उत्थाय। संधिरार्षः॥ 12-341-23 ततः शुकेति दीर्घेण शौक्ष्येणाक्रन्दितं तथेति ट. थ. पाठः॥ 12-341-25 तत एकाक्षरां वाचं भो इत्येव समीरयदिति थ. पाठः॥ 12-341-30 वासांस्याददिरे काश्चिदिति थ. पाठः॥ 12-341-36 दुष्प्रापामकृतात्मभिरिति ट. थ. पाठः॥ 12-341-42 धारयेद्यः स परम इति ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|